नासाथूत्कृतिमिश्रैः मिथ्याकासैः सकण्ठटङ्कारैः ।
पृष्टो विघ्नं कुरुते विस्मृतलट्प्रत्ययो विद्वान्
विद्वत्सभायां कदाचित् अन्येन पृष्टस्य प्रश्नस्य उत्तरं विस्मृत्यादिवशात् अजानन् विषयोपस्थापकः कष्टम् अनुभवति । विषयस्मरणार्थं बहुधा प्रयत्नं करोति सः । तथापि किमपि न स्मर्यते । तदा स्वस्य असहायकतां गोपयितुं सः नासां पौनःपुन्येन स्पृशन् थूत्कारशब्दं करोति , मिथ्याकासम् उत्पादयति । ध्वनिसमीकरणव्याजेन कण्ठशब्दं करोति । एवं बहुभिः शरीरव्यापारैः सः स्वस्य विस्मृतेः (अज्ञानस्य वा) प्रकाशनं निवारयितुं प्रयतते ।
एषा एव स्थितिः मौखिकपरीक्षासु , कक्षादिषु चापि दृष्टिगोचरतां याति ननु बहुधा ?
******************************************
Friday, November 23, 2007
अधिकार - कर्तव्यभेदः
महाकोशले बण्डानामकात् स्थलात् सागरनामकं जनपदकेन्द्रं प्रति एकं बस्यानं गन्तुम् उद्युक्तम् आसीत् । महान् जनसम्मर्दः आसीत् तत्र । तावता आरक्षकोपनिरीक्षकः तत् यानम् आरुढवान् । सः निर्वाहकम् अवदत् - " मम उपवेशनाय स्थलं कल्प्यताम् " इति । तेन
चिटिका न क्रीता आसीत् ।
निर्वाहकः परितः अपश्यत् । पुरतः स्थिते आसने त्रयः उपविष्टाः आसन् । तेषु कश्चन अधिकारी इव लक्ष्यते स्म , अपर राजनीतिजनः इव । तृतीयः आसीत् अशिक्षितः वनवासी तरुणः । निवार्हकः तस्य
वनवासितरुणस्य समीपं गत्वा अवदत् - " भोः, उत्तिष्ठ ! अस्माकम् आरक्षकाधिकारिणा अत्र उपविश्यते " इति ।
युवकः निर्वाहकम् आरक्षकाधिकारिणं च सकृत् दृष्ट्वा अवदत् - " मया किमर्थम् उत्थातव्यम् ? मया चिटिका क्रीता । पूर्वम् एव आगत्य अत्र उपविष्टं च । आरक्षकाधिकारी अन्यत्र कुत्रापि उपविशतु नाम् " इति ।
तस्य युवकस्य आत्मविश्वासपूर्वकं व्यवहारं दृष्ट्वा जनाः आश्चर्ययुक्ताः जाताः । आरक्षकाधिकारी विच्छायमुखः सन् पृष्ठतः अगच्छत् स्थलान्वेषणाय । यानम् अग्रे अगच्छत् । ’ चङ्गी ’ नामके स्थाने यानम् अतिष्ठत् । पुनः अपि जनाः आरुढ्वन्तः । कश्चन अशीतवर्षीयः वृद्धः अपि कष्टेन आरुह्य तरुनस्य पार्श्वे एव अतिष्ठत् । सः स्थातुम् अपि कष्टम् अनुभवति स्म । एतत् लक्षितवान् सः तरुणः उत्थाय्-आर्य! भ्वान् मम् स्थाने उपविशतु । अहं तिष्ठामि " इति वदन् तं वृद्धं स्वस्थाने उपवेशितवान् ।

एहि हसाम
रविः - विश्व! एतं ग्रामं प्रति आगमनसमये भवान् कथम् आसीत् ?
विश्वः - हन्त ।
अहम् उत्थाय उपवेष्टुम् अपि न शक्नोति स्म । सदा शयनमेव आसीत् मम । अन्नं रोटिकां वाखादितुम् अपि न शक्नोमि स्म ।........
रविः - एवम् !! तदा किं जातम् आसीत् भवतः ?
विश्वः - किमपि न जातम् आसीत् । अहम् आसं मासद्वयस्य शिशुः ।

Subscribe to:
Posts (Atom)